|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.123. अध्यायः 123
Mahabharata - Adi Parva - Chapter Topics
सभार्यस्य पाण्डोर्मृगयार्थं वनगमनम्॥ 1 ॥
तत्र मृगरूपस्य मृग्या मैथुनं चरतः किन्दमस्य मुनेर्हननम्॥ 2 ॥
मैथुनकाले त्वं मरिष्यसीति किन्दमेन पाण्डुं प्रति शापः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-123-0x(733)(5414)
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्।
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः॥ 1-123-1(5415)
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम्।
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत्॥ 1-123-2(5416)
ततः सत्यवतीं भीष्मं कौसल्यां च यशस्विनीम्।
शुभैः पाण्डुर्जितैरर्थैस्तोषयामास भारत॥ 1-123-3(5417)
ननन्द माता कौसल्या तमप्रतिमतेजसम्।
जयन्तमिव पौलोमी परिष्वज्य नर्षभम्॥ 1-123-4(5418)
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः।
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः॥ 1-123-5(5419)
संप्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ।
जिततन्द्रिस्तदा पाण्डुर्बभूव वनगोचरः॥ 1-123-6(5420)
हित्वा प्रासादनिलयं शुभानि शयनानि च।
अरण्यनित्यः सततं बभूव मृगयापरः॥ 1-123-7(5421)
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरः।
उवास गिरिपृष्ठेषु महाशालवनेषु च॥ 1-123-8(5422)
रराज कुन्त्या माद्र्या च पाण्डुः सह वने चरन्।
करेण्वोरिव मध्यस्थः श्रीमान्पौरन्दरो गजः॥ 1-123-9(5423)
भारतं सह भार्याभ्यां खङ्गबाणधनुर्धरम्।
विचित्रकवचं वीरं परमास्त्रविदं नृपम्।
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः॥ 1-123-10(5424)
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः।
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः॥ 1-123-11(5425)
तदासाद्य महारण्यं मृगव्यालनिषेवितम्।
तत्र मैथुनकालस्थं ददर्श मृगयूथपम्॥ 1-123-12(5426)
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः॥ 1-123-13(5427)
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः॥ 1-123-14(5428)
स संयुक्तस्तया मृग्या मानुषीं वाचमीरयन्।
क्षणेन पतितो भूमौ विललापातुरो मृगः॥ 1-123-15(5429)
मृग उवाच। 1-123-16x(734)
काममन्युवशं प्राप्ता बुद्ध्यन्तरगता अपि।
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः॥ 1-123-16(5430)
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः।
विधिपर्यागतानर्थान्प्रज्ञावान्प्रतिपद्यते॥ 1-123-17(5431)
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत।
कामलोभाभिभूतस्य कथं ते चलिता मतिः॥ 1-123-18(5432)
पाण्डुरुवाच। 1-123-19x(735)
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता।
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि॥ 1-123-19(5433)
अच्छद्मनाऽमायया च मृगाणां वध इष्यते।
स एव धर्मो राज्ञां तु तद्धि त्वं किं नु गर्हसे॥ 1-123-20(5434)
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः।
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने॥ 1-123-21(5435)
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे।
अगस्त्यस्याभिचारेण युष्माकं विहितो वधः॥ 1-123-22(5436)
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान्।
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते॥ 1-123-23(5437)
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे॥ 1-123-24(5438)
मृग उवाच। 1-123-25x(736)
नाहं घ्न्तं मृगन्राजन्विगर्हे चात्मकारणात्।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः॥ 1-123-25(5439)
सर्वभूतहिते काले सर्वभूतेप्सिते तथा।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने॥ 1-123-26(5440)
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम्।
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम्॥ 1-123-27(5441)
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम्।
वंशे जातस्य कौरव्य नानुरूपमिदं तव॥ 1-123-28(5442)
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्।
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत॥ 1-123-29(5443)
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्।
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम्॥ 1-123-30(5444)
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः॥ 1-123-31(5445)
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नतः।
मुनिं मूलफलाहारं मृगवेषधरं नृप॥ 1-123-32(5446)
वसमानमरण्येषु नित्यं शमपरायणम्।
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यनागसः॥ 1-123-33(5447)
द्वयोर्नृशंसकर्तारमवशं काममोहितम्।
जीवितान्तकरो भावो मैथुने समुपैष्यति॥ 1-123-34(5448)
अहं हि किंदमो नाम तपसा भावितो मुनिः।
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्॥ 1-123-35(5449)
मृगो भत्वा मृगैः सार्धं चरामि गहने वने।
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः॥ 1-123-36(5450)
मृगरूपधरं हत्वा मामेवं काममोहितम्।
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि॥ 1-123-37(5451)
प्रियया सह संवासं प्राप्य कामविमोहितः।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि॥ 1-123-38(5452)
अन्तकाले हि संवासं यया गन्तासि कान्तया।
प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्।
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति॥ 1-123-39(5453)
वर्तमानः सुखे दुःखं यथाऽहं प्रापितस्त्वया।
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति॥ 1-123-40(5454)
वैशम्पायन उवाच। 1-123-41x(737)
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत॥ ॥ 1-123-41(5455)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः॥ 123 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-123-23 रन्ध्रे विशस्त्रत्वव्यसनाक्रान्तत्वादिसमये शरान्न विमुञ्चन्तीति संबन्धः। किंत्वेषां शत्रूणां वधकालः सर्वलोकप्रसिद्धः सङ्ग्राम आभिमुख्यादिमान्स एव प्रशश्यतेऽन्यो निन्द्यत इत्यर्थः॥ 1-123-24 प्रमत्तमसावधानम्॥ 1-123-32 ते त्वया॥ 1-123-34 द्वयोः स्त्रीपुंसयोर्नृशंसं निन्द्यं मैथुनासक्तयोर्वधस्तस्य कर्तारम्॥ 1-123-39 प्राप्तं त्वा त्वाम्॥ त्रयोविंशत्यधिकशततमोऽध्यायः॥ 123 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|